यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि। यताहारैर्वनचरैः सीते दुःखमतो वनम्
अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः। भयानि च महान्त्यत्र ततो दुःखतरं वनम्
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि। चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम्
नदीनिलयनाः सर्पा नदीकुटिलगामिनः। तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम्
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह। बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्
द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि। वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्
कायक्लेशाश्च बहवो भयानि विविधानि च। अरण्यवासे वसतो दुःखमेव सदा वनम्
क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्
तदलं ते वनं गत्वा क्षेमं नहि वनं तव। विमृशन्निव पश्यामि बहुदोषकरं वनम्
वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना। न तस्य सीता वचनं चकार तं ततोऽब्रवीद् राममिदं सुदुःखिता
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-
एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता। प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति। गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा। चमराः सृमराश्चैव ये चान्ये वनचारिणः
अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव। रूपं दृष्ट्वापसर्पेयुस्तव सर्वे हि बिभ्यति
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया। त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्
नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव। सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्। काममेवंविधं राम त्वया मम निदर्शितम्
अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्। पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे। वनवासकृतोत्साहा नित्यमेव महाबल
आदेशो वनवासस्य प्राप्तव्यः स मया किल। सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा
कृतादेशा भविष्यामि गमिष्यामि त्वया सह। कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः
वनवासे हि जानामि दुःखानि बहुधा किल। प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः
कन्यया च पितुर्गेहे वनवासः श्रुतो मया। भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः
प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो। गमनं वनवासस्य कांक्षितं हि सह त्वया
कृतक्षणाहं भद्रं ते गमनं प्रति राघव। वनवासस्य शूरस्य मम चर्या हि रोचते
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा। भर्तारमनुगच्छन्ती भर्ता हि परदैवतम्
प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया। श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्
इहलोके च पितृभिर्या स्त्री यस्य महाबल। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा
एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्। नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना