सुखं वने निवत्स्यामि यथैव भवने पितुः। अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी। सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्। अन्यस्यापि जनस्येह किं पुनर्मम मानद
साहं त्वया गमिष्यामि वनमद्य न संशयः। नाहं शक्या महाभाग निवर्तयितुमुद्यता
फलमूलाशना नित्यं भविष्यामि न संशयः। न ते दुःखं करिष्यामि निवसन्ती त्वया सदा
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि। इच्छामि परतः शैलान् पल्वलानि सरांसि च
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता। हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता। अभिषेकं करिष्यामि तासु नित्यमनुव्रता
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी। एवं वर्षसहस्राणि शतं वापि त्वया सह
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि हि न मे मतः। स्वर्गेऽपि च विना वासो भविता यदि राघव। त्वया विना नरव्याघ्र नाहं तदपि रोचये
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैश्च। वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य सम्मता
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्। नयस्व मां साधु कुरुष्व याचनां नातो मया ते गुरुता भविष्यति
तथा ब्रुवाणामपि धर्मवत्सलां न च स्म सीतां नृवरो निनीषति। उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-
स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्
सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्। निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह
सीते महाकुलीनासि धर्मे च निरता सदा। इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले। वने दोषा हि बहवो वसतस्तान् निबोध मे
सीते विमुच्यतामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वनमित्यभिधीयते
हितबुद्ध्या खलु वचो मयैतदभिधीयते। सदा सुखं न जानामि दुःखमेव सदा वनम्
गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्। सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्
सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः। मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्
लताकण्टकसंकीर्णाः कृकवाकूपनादिताः। निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्
सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले। रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्
अहोरात्रं च संतोषः कर्तव्यो नियतात्मना। फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्
उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्
देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्। प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः। चरतां नियमेनैव तस्माद् दुःखतरं वनम्
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः। आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्