कुले महति सम्भूते धर्मज्ञे धर्मचारिणि। शृणु जानकि येनेदं क्रमेणाद्यागतं मम
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै। कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ
तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते। प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया। पित्रा मे भरतश्चापि यौवराज्ये नियोजितः
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्। भरतस्य समीपे ते नाहं कथ्यः कदाचन
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्। तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्। स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्। वनमद्यैव यास्यामि स्थिरीभव मनस्विनि
याते च मयि कल्याणि वनं मुनिनिषेवितम्। व्रतोपवासपरया भवितव्यं त्वयानघे
कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि। वन्दितव्यो दशरथः पिता मम जनेश्वरः
माता च मम कौसल्या वृद्धा संतापकर्शिता। धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति
वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः। स्नेहप्रणयसम्भोगैः समा हि मम मातरः
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः। त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम
विप्रियं च न कर्तव्यं भरतस्य कदाचन। स हि राजा च वैदेहि देशस्य च कुलस्य च
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः। राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये
औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः। समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः
सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी। भरतस्य रता धर्मे सत्यव्रतपरायणा
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि। यथा व्यलीकं कुरुषे न कस्यचित् तथा त्वया कार्यमिदं वचो मम
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी। प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्। त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम
वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप। अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम्
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा। स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ। अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि
न पिता नात्मजो वात्मा न माता न सखीजनः। इह प्रेत्य च नारीणां पतिरेको गतिः सदा
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव। अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्
ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम्। नय मां वीर विस्रब्धः पापं मयि न विद्यते
प्रासादाग्रे विमानैर्वा वैहायसगतेन वा। सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्। नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्। नानामृगगणाकीर्णं शार्दूलगणसेवितम्