औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्। चकार रक्षां कौसल्या मन्त्रैरभिजजाप च
उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी। वाङ्मात्रेण न भावेन वाचा संसज्जमानया
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी। अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्। पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु
प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना। द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्
भद्रासनगतं राम वनवासादिहागतम्। द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः
मङ्गलैरुपसम्पन्नो वनवासादिहागतः। वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः
मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः। अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव
अतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि। प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे
तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः। जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया
thumb|षड्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्विंशः सर्गः ॥२-
अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्। कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः
विराजयन् राजसुतो राजमार्गं नरैर्वृतम्। हृदयान्याममन्थेव जनस्य गुणवत्तया
वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी। तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्
देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना। अभिज्ञा राजधर्माणां राजपुत्री प्रतीक्षति
प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्। प्रहृष्टजनसम्पूर्णं ह्रिया किंचिदवाङ्मुखः
अथ सीता समुत्पत्य वेपमाना च तं पतिम्। अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्
तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्। तं शोकं राघवः सोढुं ततो विवृततां गतः
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्। आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण राघव। प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः
न ते शतशलाकेन जलफेननिभेन च। आवृतं वदनं वल्गु च्छत्रेणाभिविराजते
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्। चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्
वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ। स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः। मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः
न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः। अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः। मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः
न हस्ती चाग्रतः श्रीमान् सर्वलक्षणपूजितः। प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन। भद्रासनं पुरस्कृत्य यान्तं वीर पुरःसरम्
अभिषेको यदा सज्जः किमिदानीमिदं तव। अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः। सीते तत्रभवांस्तातः प्रव्राजयति मां वनम्