राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्। क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम्
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने। सरीसृपाश्च कीटाश्च मा भूवन् गहने तव
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः। महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक
नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः। मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः। सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः। सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः
शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा। पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः। उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन
इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी। स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना
ज्वलनं समुपादाय ब्राह्मणेन महात्मना। हावयामास विधिना राममङ्गलकारणात्
घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान्। उपसम्पादयामास कौसल्या परमाङ्गना
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्। हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्
मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः। वाचयामास रामस्य वने स्वस्त्ययनक्रियाम्
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी। दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते। वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा। अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्। अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम्
त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः। यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम्
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते। मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम्
इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी। गन्धैश्चापि समालभ्य राममायतलोचना
औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्। चकार रक्षां कौसल्या मन्त्रैरभिजजाप च
उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी। वाङ्मात्रेण न भावेन वाचा संसज्जमानया
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी। अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्। पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु
प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना। द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्
भद्रासनगतं राम वनवासादिहागतम्। द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः
मङ्गलैरुपसम्पन्नो वनवासादिहागतः। वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः
मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः। अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव
अतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि। प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे
तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः। जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया