रोमपादमुवाचेदं सहामात्यः पुरोहितः उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-
ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम् ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-
कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥१-१०-
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥१-१०-
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१-१०-
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१-१०-
गतानां तु ततः पूजामृषिपुत्रश्चकार ह इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१-१०-
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१-१०-
अस्माकमपि मुख्यानि फलानीमानि हे द्विज गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१-१०-
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥१-१०-
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥१-१०-
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥१-१०-
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥१-१०-
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥१-१०-
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥१-१०-
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥१-१०-
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥१-१०-
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥१-१०-
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥१-१०-
वर्षेणैवागतं विप्रं तापसं स नराधिपः प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥१-१०-
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥१-१०-
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥१-१०-