भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्। भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्
अपि या निर्नमस्कारा निवृत्ता देवपूजनात्। शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता
एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः। अग्निकार्येषु च सदा सुमनोभिश्च देवताः
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः। एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी
नियता नियताहारा भर्तृशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि पर्यागते सति
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्। एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा
कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्। गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक
विनिवर्तयितुं वीर नूनं कालो दुरत्ययः। गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितव्रते। पितुरानृण्यतां प्राप्ते स्वपिष्ये परमं सुखम्
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि। यस्त्वां संचोदयति मे वच आविध्य राघव
गच्छेदानीं महाबाहो क्षेमेण पुनरागतः। नन्दयिष्यसि मां पुत्र साम्ना श्लक्ष्णेन चारुणा
अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः। यत् त्वां पुत्रक पश्येयं जटावल्कलधारिणम्
तथा हि रामं वनवासनिश्चितं ददर्श देवी परमेण चेतसा। उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-
सा विनीय तमायासमुपस्पृश्य जलं शुचि। चकार माता रामस्य मङ्गलानि मनस्विनी
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम। शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे
यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु
येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च। ते च त्वामभिरक्षन्तु वने सह महर्षिभिः
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा। सत्येन च महाबाहो चिरं जीवाभिरक्षितः
समित्कुशपवित्राणि वेद्यश्चायतनानि च। स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः। पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः। स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः
स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः। सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः
ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः। स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः
शैलाः सर्वे समुद्राश्च राजा वरुण एव च। द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः
नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः। अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम्
ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा। कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते
महावनेऽपि चरतो मुनिवेषस्य धीमतः। तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा