एवमुक्ता तु रामेण कौसल्या शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद् वाक्यं मातरं भृशदुःखिताम्
मया चैव भवत्या च कर्तव्यं वचनं पितुः। राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः
इमानि तु महारण्ये विहृत्य नव पञ्च च। वर्षाणि परमप्रीत्या स्थास्यामि वचने तव
एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा। उवाच परमार्ता तु कौसल्या सुतवत्सला
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्। नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव
यदि ते गमने बुद्धिः कृता पितरपेक्षया। तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च। भवत्या मम चैवाद्य राजा प्रभवति प्रभुः
न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता। भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः
राज्ञो वृद्धस्य सततं हितं चर समाहिता। व्रतोपवासनिरता या नारी परमोत्तमा
भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्। भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्
अपि या निर्नमस्कारा निवृत्ता देवपूजनात्। शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता
एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः। अग्निकार्येषु च सदा सुमनोभिश्च देवताः
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः। एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी
नियता नियताहारा भर्तृशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि पर्यागते सति
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्। एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा
कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्। गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक
विनिवर्तयितुं वीर नूनं कालो दुरत्ययः। गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितव्रते। पितुरानृण्यतां प्राप्ते स्वपिष्ये परमं सुखम्
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि। यस्त्वां संचोदयति मे वच आविध्य राघव
गच्छेदानीं महाबाहो क्षेमेण पुनरागतः। नन्दयिष्यसि मां पुत्र साम्ना श्लक्ष्णेन चारुणा
अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः। यत् त्वां पुत्रक पश्येयं जटावल्कलधारिणम्
तथा हि रामं वनवासनिश्चितं ददर्श देवी परमेण चेतसा। उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-
सा विनीय तमायासमुपस्पृश्य जलं शुचि। चकार माता रामस्य मङ्गलानि मनस्विनी
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम। शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे
यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु
येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च। ते च त्वामभिरक्षन्तु वने सह महर्षिभिः
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा। सत्येन च महाबाहो चिरं जीवाभिरक्षितः