पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने
स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया। नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्। राज्यं च तव रक्षेयमहं वेलेव सागरम्
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव। अहमेको महीपालानलं वारयितुं बलात्
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे। नासिराबन्धनार्थाय न शराः स्तम्भहेतवः
अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्। न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा। प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे। हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही
खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः। पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने। कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्। विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति। राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो
अद्य चन्दनसारस्य केयूरामोक्षणस्य च। वसूनां च विमोक्षस्य सुहृदां पालनस्य च
अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशःसुहृज्जनैः। यथा तवेयं वसुधा वशा भवेत् तथैव मां शाधि तवास्मि किंकरः
विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः। उवाच पित्रोर्वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-
तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने। कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः। मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते। कथं स भोक्ष्यते रामो वने मूलफलान्ययम्
क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम्। गुणवान् दयितो राज्ञः काकुत्स्थो यद् विवास्यते
नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन्। लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि
अयं तु मामात्मभवस्तवादर्शनमारुतः। विलापदुःखसमिधो रुदिताश्रुहुताहुतिः
चिन्ताबाष्पमहाधूमस्तवागमनचिन्तजः। कर्शयित्वाधिकं पुत्र निःश्वासायाससम्भवः
त्वया विहीनामिह मां शोकाग्निरतुलो महान्। प्रधक्ष्यति यथा कक्ष्यं चित्रभानुर्हिमात्यये
कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति। अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि
यथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः। श्रुत्वा रामोऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते। भवत्या च परित्यक्तो न नूनं वर्तयिष्यति
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः। शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः