यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्। तथाप्युपेक्षणीयं ते न मे तदपि रोचते
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते। वीराः सम्भावितात्मानो न दैवं पर्युपासते
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्। न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च। दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति
अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः। यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्
अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्। प्रधावितमहं दैवं पौरुषेण निवर्तये
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्। न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता
यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः। अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा
मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा। प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्। आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि
पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने
स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया। नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्। राज्यं च तव रक्षेयमहं वेलेव सागरम्
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव। अहमेको महीपालानलं वारयितुं बलात्
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे। नासिराबन्धनार्थाय न शराः स्तम्भहेतवः
अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्। न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा। प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे। हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही
खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः। पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने। कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्। विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति। राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो
अद्य चन्दनसारस्य केयूरामोक्षणस्य च। वसूनां च विमोक्षस्य सुहृदां पालनस्य च
अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशःसुहृज्जनैः। यथा तवेयं वसुधा वशा भवेत् तथैव मां शाधि तवास्मि किंकरः
विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः। उवाच पित्रोर्वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-
तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने। कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः। मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते। कथं स भोक्ष्यते रामो वने मूलफलान्ययम्