अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्। अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया। कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति
यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः। किं नाम कृपणं दैवमशक्तमभिशंससि
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते। सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे
तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः। यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव। तयोः प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्। नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि
येनैवमागता द्वैधं तव बुद्धिर्महामते। सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः। करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्
यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते। जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः
तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः। मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः। तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्। तथाप्युपेक्षणीयं ते न मे तदपि रोचते
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते। वीराः सम्भावितात्मानो न दैवं पर्युपासते
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्। न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च। दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति
अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः। यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्
अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्। प्रधावितमहं दैवं पौरुषेण निवर्तये
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्। न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता
यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः। अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा
मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा। प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्। आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि
पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने
स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया। नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्। राज्यं च तव रक्षेयमहं वेलेव सागरम्
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव। अहमेको महीपालानलं वारयितुं बलात्
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे। नासिराबन्धनार्थाय न शराः स्तम्भहेतवः
अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्। न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा। प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे। हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही
खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः। पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने। कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते