सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः। अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः
यस्या मदभिषेकार्थे मानसं परितप्यते। माता नः सा यथा न स्यात् सविशङ्का तथा कुरु
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे। मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन। मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः। परलोकभयाद् भीतो निर्भयोऽस्तु पिता मम
तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते। सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण। अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा। सुतं भरतमव्यग्रमभिषेचयतां ततः
मयि चीराजिनधरे जटामण्डलधारिणि। गतेऽरण्यं च कैकेय्या भविष्यति मनः सुखम्
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्। तं नु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम्
कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने। राज्यस्य च वितीर्णस्य पुनरेव निवर्तने
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने। यदि तस्या न भावोऽयं कृतान्तविहितो भवेत्
जानासि हि यथा सौम्य न मातृषु ममान्तरम्। भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः। उग्रैर्वाक्यैरहं तस्या नान्यद् दैवात् समर्थये
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा। ब्रूयात् सा प्राकृतेव स्त्री मत्पीड्यं भर्तृसंनिधौ
यदचिन्त्यं तु तद् दैवं भूतेष्वपि न हन्यते। व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः
कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान्। यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न दृश्यते
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः। उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः
असंकल्पितमेवेह यदकस्मात् प्रवर्तते। निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत्
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना। व्याहतेऽप्यभिषेके मे परितापो न विद्यते
तस्मादपरितापः संस्त्वमप्यनुविधाय माम्। प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः। मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति
अथवा किं मयैतेन राज्यद्रव्यमयेन तु। उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति
मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये। राज्यं वा वनवासो वा वनवासो महोदयः
न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्यभिशङ्कितव्या। दैवाभिपन्ना न पिता कथंचि- ज्जानासि दैवं हि तथाप्रभावम्
thumb|त्रयोविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-
इति ब्रुवति रामे तु लक्ष्मणोऽवाक् शिरा इव। ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः। निशश्वास महासर्पो बिलस्थ इव रोषितः
तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा। बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्
अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः। तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्