मम मातुर्महद् दुःखमतुलं शुभलक्षण। अभिप्रायं न विज्ञाय सत्यस्य च शमस्य च
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्। धर्मसंश्रितमप्येतत् पितुर्वचनमुत्तमम्
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा। न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता
सोऽहं न शक्ष्यामि पुनर्नियोगमतिवर्तितुम्। पितुर्हि वचनाद् वीर कैकेय्याहं प्रचोदितः
तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्। धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्
तमेवमुक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः। उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्। शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे
तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्। ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम्
शोकः संधार्यतां मातर्हृदये साधु मा शुचः। वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया। पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः
अम्ब सम्भृत्य सम्भारान् दुःखं हृदि निगृह्य च। वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम्
एतद् वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च। मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच
यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च। न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि पुत्र गन्तुम्
किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयामृतेन। श्रेयो मुहूर्तं तव संनिधानं ममैव कृत्स्नादपि जीवलोकात्
नरैरिवोल्काभिरपोह्यमानो महागजो ध्वान्तमभिप्रविष्टः। भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः
स मातरं चैव विसंज्ञकल्पा- मार्तं च सौमित्रिमभिप्रतप्तम्। धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम्
अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च। मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसि मा सुदुःखम्
धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु। ये तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सपुत्रा
यस्मिंस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात् तदुपक्रमेत। द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता
गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षादथवापि कामात्। यद् व्यादिशेत् कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्तिः
न तेन शक्नोमि पितुः प्रतिज्ञा- मिमां न कर्तुं सकलां यथावत्। स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिश्च धर्मः
तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने। देवी मया सार्धमितोऽभिगच्छेत् कथंस्विदन्या विधवेव नारी
सा मानुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि। यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः
यशो ह्यहं केवलराज्यकारणा- न्न पृष्ठतः कर्तुमलं महोदयम्। अदीर्घकालेन तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः
प्रसादयन्नरवृषभः स मातरं पराक्रमाज्जिगमिषुरेव दण्डकान्। अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-
अथ तं व्यथया दीनं सविशेषममर्षितम्। सरोषमिव नागेन्द्रं रोषविस्फारितेक्षणम्
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्। उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान्
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्। अवमानं निरस्यैनं गृहीत्वा हर्षमुत्तमम्
उपक्लृप्तं यदैतन्मे अभिषेकार्थमुत्तमम्। सर्वं निवर्तय क्षिप्रं कुरु कार्यं निरव्ययम्