मया पार्श्वे सधनुषा तव गुप्तस्य राघव। कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ। करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति। सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते
प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता। अमित्रभूतो निःसङ्गं वध्यतां वध्यतामपि
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्
बलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम। दातुमिच्छति कैकेय्यै उपस्थितमिदं तव
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्। कास्य शक्तिः श्रियं दातुं भरतायारिशासन
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः। सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति। प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय
हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः। देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु
हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्। कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्
एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः। उवाच रामं कौसल्या रुदती शोकलालसा
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्। विहाय शोकसंतप्तां गन्तुमर्हसि मामितः
धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि। शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्। परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्। त्वां साहं नानुजानामि न गन्तव्यमितो वनम्
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन च। त्वया सह मम श्रेयस्तृणानामपि भक्षणम्
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्। अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम्
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्। ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम्
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम। प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्
ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा। गौर्हता जानताधर्मं कण्डुना च विपश्चिता
अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः। खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः
जामदग्न्येन रामेण रेणुका जननी स्वयम्। कृत्ता परशुनारण्ये पितुर्वचनकारणात्
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्। पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्
न खल्वेतन्मयैकेन क्रियते पितृशासनम्। एतैरपि कृतं देवि ये मया परिकीर्तिताः
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये। पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते
तदेतत् तु मया कार्यं क्रियते भुवि नान्यथा। पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्। वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्। विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्