भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्। व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी
thumb|एकविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकविंशः सर्गः ॥२-
तथा तु विलपन्तीं तां कौसल्यां राममातरम्। उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः
न रोचते ममाप्येतदार्ये यद् राघवो वनम्। त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशंगतः
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः। नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः
नास्यापराधं पश्यामि नापि दोषं तथाविधम्। येन निर्वास्यते राष्ट्राद् वनवासाय राघवः
न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्। अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात्
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः। पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन्
यावदेव न जानाति कश्चिदर्थमिमं नरः। तावदेव मया सार्धमात्मस्थं कुरु शासनम्
मया पार्श्वे सधनुषा तव गुप्तस्य राघव। कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ। करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति। सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते
प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता। अमित्रभूतो निःसङ्गं वध्यतां वध्यतामपि
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्
बलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम। दातुमिच्छति कैकेय्यै उपस्थितमिदं तव
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्। कास्य शक्तिः श्रियं दातुं भरतायारिशासन
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः। सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति। प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय
हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः। देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु
हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्। कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्
एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः। उवाच रामं कौसल्या रुदती शोकलालसा
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्। विहाय शोकसंतप्तां गन्तुमर्हसि मामितः
धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि। शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्। परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्। त्वां साहं नानुजानामि न गन्तव्यमितो वनम्
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन च। त्वया सह मम श्रेयस्तृणानामपि भक्षणम्
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्। अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम्
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्। ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम्