सा राघवमुपासीनमसुखार्ता सुखोचिता। उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे
यदि पुत्र न जायेथा मम शोकाय राघव। न स्म दुःखमतो भूयः पश्येयमहमप्रजाः
एक एव हि वन्ध्यायाः शोको भवति मानसः। अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे। अपि पुत्रे विपश्येयमिति रामास्थितं मया
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्। अहं श्रोष्ये सपत्नीनामवराणां परा सती
अतो दुःखतरं किं नु प्रमदानां भविष्यति। मम शोको विलापश्च यादृशोऽयमनन्तकः
त्वयि संनिहितेऽप्येवमहमासं निराकृता। किं पुनः प्रोषिते तात ध्रुवं मरणमेव हि
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमसम्मता। परिवारेण कैकेय्याः समा वाप्यथवावरा
यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते। कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते
नित्यक्रोधतया तस्याः कथं नु खरवादि तत्। कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता
दश सप्त च वर्षाणि जातस्य तव राघव। अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम्
तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात्। विप्रकारं सपत्नीनामेवं जीर्णापि राघव
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्। कृपणा वर्तयिष्यामि कथं कृपणजीविका
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः। दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया
स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते। प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा
ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम। यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नो विदीर्यते। अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि। तपश्च तप्तं यदपत्यकाम्यया सुनिष्फलं बीजमिवोप्तमूषरे
यदि ह्यकाले मरणं यदृच्छया लभेत कश्चिद् गुरुदुःखकर्शितः। गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै
अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ। अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवाभिकांक्षया
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्। व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी
thumb|एकविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकविंशः सर्गः ॥२-
तथा तु विलपन्तीं तां कौसल्यां राममातरम्। उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः
न रोचते ममाप्येतदार्ये यद् राघवो वनम्। त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशंगतः
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः। नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः
नास्यापराधं पश्यामि नापि दोषं तथाविधम्। येन निर्वास्यते राष्ट्राद् वनवासाय राघवः
न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्। अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात्
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः। पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन्
यावदेव न जानाति कश्चिदर्थमिमं नरः। तावदेव मया सार्धमात्मस्थं कुरु शासनम्