ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः । सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-
ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति । काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति । स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् । द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा । तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् । एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-
अङ्गेषु प्रथितो राजा भविष्यति महाबलः । तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-
ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व । भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् । इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-
आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् । विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् । पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति । सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥१-१०-
रोमपादमुवाचेदं सहामात्यः पुरोहितः उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-
ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम् ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-
कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-