प्रविश्य वेश्मातिभृशं मुदा युतं समीक्ष्य तां चार्थविपत्तिमागताम्। न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ। आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च। गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्। यो गतिं सर्वभूतानां परित्यजति राघवम्
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः
स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः। जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी
सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्। उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्
दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः। जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः। स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः। न्यवेदयन्त त्वरितं राममातुः प्रियं तदा
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता। प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा। अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला
प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्। ददर्श मातरं तत्र हावयन्तीं हुताशनम्
देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम्। दध्यक्षतघृतं चैव मोदकान् हविषस्तथा
लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा। समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्। तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम्
स मातरमुपक्रान्तामुपसंगृह्य राघवः। परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनि
तमुवाच दुराधर्षं राघवं सुतमात्मनः। कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्। प्राप्नुह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव। अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति
दत्तमासनमालभ्य भोजनेन निमन्त्रितः। मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत्
स स्वभावविनीतश्च गौरवाच्च तथानतः। प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे
देवि नूनं न जानीषे महद् भयमुपस्थितम्। इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च
गमिष्ये दण्डकारण्यं किमनेनासनेन मे। विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः
चतुर्दश हि वर्षाणि वत्स्याम विजने वने। कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम्