यावत्त्वं न वनं यातः पुरादस्मादतित्वरम्। पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः। मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः। कशयेव हतो वाजी वनं गन्तुं कृतत्वरः
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे। विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम्
यत् तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया। प्राणानपि परित्यज्य सर्वथा कृतमेव तत्
न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्। यथा पितरि शुश्रूषा तस्य वा वचनक्रिया
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्। वने वत्स्यामि विजने वर्षाणीह चतुर्दश
न नूनं मयि कैकेयि किंचिदाशंससे गुणान्। यद् राजानमवोचस्त्वं ममेश्वरतरा सती
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्। ततोऽद्यैव गमिष्यामि दण्डकानां महद् वनम्
भरतः पालयेद् राज्यं शुश्रूषेच्च पितुर्यथा। तथा भवत्या कर्तव्यं स हि धर्मः सनातनः
रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता। शोकादशक्नुवन् वक्तुं प्ररुरोद महास्वनम्
वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा। कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्। निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम्
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह। लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्। शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति। लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः
न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्। सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते। विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्
धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च। प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्
सर्वोऽप्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः। नालक्षयत रामस्य कंचिदाकारमानने
उचितं च महाबाहुर्न जहौ हर्षमात्मवान्। शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्
वाचा मधुरया रामः सर्वं सम्मानयञ्जनम्। मातुः समीपं धर्मात्मा प्रविवेश महायशाः
तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः। सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम्
प्रविश्य वेश्मातिभृशं मुदा युतं समीक्ष्य तां चार्थविपत्तिमागताम्। न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ। आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च। गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्। यो गतिं सर्वभूतानां परित्यजति राघवम्