मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः। यास्यामि भव सुप्रीता वनं चीरजटाधरः
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च। नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम्
अलीकं मानसं त्वेकं हृदयं दहते मम। स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्
अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च। हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः। तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्
तथाश्वासय ह्रीमन्तं किं त्विदं यन्महीपतिः। वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादद्यैव नृपशासनात्
दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः। अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश
सा हृष्टा तस्य तद् वाक्यं श्रुत्वा रामस्य कैकयी। प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम्
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादिहावर्तयितुं नराः
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्। राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते। नैतत् किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्
यावत्त्वं न वनं यातः पुरादस्मादतित्वरम्। पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः। मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः। कशयेव हतो वाजी वनं गन्तुं कृतत्वरः
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे। विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम्
यत् तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया। प्राणानपि परित्यज्य सर्वथा कृतमेव तत्
न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्। यथा पितरि शुश्रूषा तस्य वा वचनक्रिया
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्। वने वत्स्यामि विजने वर्षाणीह चतुर्दश
न नूनं मयि कैकेयि किंचिदाशंससे गुणान्। यद् राजानमवोचस्त्वं ममेश्वरतरा सती
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्। ततोऽद्यैव गमिष्यामि दण्डकानां महद् वनम्
भरतः पालयेद् राज्यं शुश्रूषेच्च पितुर्यथा। तथा भवत्या कर्तव्यं स हि धर्मः सनातनः
रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता। शोकादशक्नुवन् वक्तुं प्ररुरोद महास्वनम्
वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा। कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्। निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम्
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह। लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्। शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति। लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः
न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्। सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते। विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्