यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते। ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति
एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्। उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ
अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद् राज्ञः पतेयमपि पावके
भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च
तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम्। करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते
तमार्जवसमायुक्तमनार्या सत्यवादिनम्। उवाच रामं कैकेयी वचनं भृशदारुणम्
पुरा देवासुरे युद्धे पित्रा ते मम राघव। रक्षितेन वरौ दत्तौ सशल्येन महारणे
तत्र मे याचितो राजा भरतस्याभिषेचनम्। गमनं दण्डकारण्ये तव चाद्यैव राघव
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि। आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु
संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्। त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च
भरतश्चाभिषिच्येत यदेतदभिषेचनम्। त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव
भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्। नानारत्नसमाकीर्णां सवाजिरथसंकुलाम्
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम्
एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन। सत्येन महता राम तारयस्व नरेश्वरम्
इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्। प्रविव्यथे चापि महानुभावो राजा च पुत्रव्यसनाभितप्तः
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनविंशः सर्गः ॥२-
तदप्रियममित्रघ्नो वचनं मरणोपमम्। श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः। जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः। नाभिनन्दति दुर्धर्षो यथापूर्वमरिंदमः
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः। यास्यामि भव सुप्रीता वनं चीरजटाधरः
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च। नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम्
अलीकं मानसं त्वेकं हृदयं दहते मम। स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्
अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च। हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः। तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्
तथाश्वासय ह्रीमन्तं किं त्विदं यन्महीपतिः। वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादद्यैव नृपशासनात्
दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः। अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश
सा हृष्टा तस्य तद् वाक्यं श्रुत्वा रामस्य कैकयी। प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम्
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादिहावर्तयितुं नराः