इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्। निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्। उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा
अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्। बभूव संरब्धतरः समुद्र इव पर्वणि
चिन्तयामास चतुरो रामः पितृहिते रतः। किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति। तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते
स दीन इव शोकार्तो विषण्णवदनद्युतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्
कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय
अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः। विषण्णवदनो दीनः नहि मां प्रति भाषते
शारीरो मानसो वापि कच्चिदेनं न बाधते। संतापो वाभितापो वा दुर्लभं हि सदा सुखम्
कच्चिन्न किंचिद् भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्
अतोषयन् महाराजमकुर्वन् वा पितुर्वचः। मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे
यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः। कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते
कच्चित्ते परुषं किंचिदभिमानात् पिता मम। उक्तो भवत्या रोषेण येनास्य लुलितं मनः
एवमुक्ता तु कैकेयी राघवेण महात्मना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः
न राजा कुपितो राम व्यसनं नास्य किंचन। किंचिन्मनोगतं त्वस्य त्वद्भयान्नानुभाषते
प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते। तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च। स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा
अतिसृज्य ददानीति वरं मम विशाम्पतिः। स निरर्थं गतजले सेतुं बन्धितुमिच्छति
धर्ममूलमिदं राम विदितं च सतामपि। तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा
यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्। करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते। ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति
एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्। उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ
अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद् राज्ञः पतेयमपि पावके
भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च
तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम्। करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते
तमार्जवसमायुक्तमनार्या सत्यवादिनम्। उवाच रामं कैकेयी वचनं भृशदारुणम्
पुरा देवासुरे युद्धे पित्रा ते मम राघव। रक्षितेन वरौ दत्तौ सशल्येन महारणे
तत्र मे याचितो राजा भरतस्याभिषेचनम्। गमनं दण्डकारण्ये तव चाद्यैव राघव
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि। आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु
संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्। त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च