एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद् विपुलां गमिष्यन्। एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय। न ह्यप्रियं किंचन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन्
स घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः। महीयमानः प्रवरैश्च वादकै- रभिष्टुतो वैश्रवणो यथा ययौ
करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम्। प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो विमलं महापथम्
thumb|सप्तदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तदशः सर्गः ॥२-
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः। पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्
अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम्। स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्
राजमार्गं ययौ रामो मध्येनागुरुधूपितम्। चन्दनानां च मुख्यानामगुरूणां च संचयैः
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च। अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि
शोभमानमसम्बाधं तं राजपथमुत्तमम्। संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि
ददर्श तं राजपथं दिवि देवपतिर्यथा। दध्यक्षतहविर्लाजैर्धूपैरगुरुचन्दनैः
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्। आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्
यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ। पितामहैराचरितं तथैव प्रपितामहैः
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय। यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः। ततः सुखतरं सर्वे रामे वत्स्याम राजनि
अलमद्य हि भुक्तेन परमार्थैरलं च नः। यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्
ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति। यथाभिषेको रामस्य राज्येनामिततेजसः
एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः। आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्। नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे
यश्च रामं न पश्येत्तु यं च रामो न पश्यति। निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते
सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम्। चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः
आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः। वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः
तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम्। राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः। पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः। संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात्
तस्मिन् प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे। प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः
thumb|अष्टादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशः सर्गः ॥२-
स ददर्शासने रामो विषण्णं पितरं शुभे। कैकेय्या सहितं दीनं मुखेन परिशुष्यता
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्। ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः
रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः। शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्। रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्