पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः। स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च
ततः पावकसंकाशमारुरोह रथोत्तमम्। वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः
मेघनादमसम्बाधं मणिहेमविभूषितम्। मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः। हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया। स पर्जन्य इवाकाशे स्वनवानभिनादयन्
निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः। चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः। ततो हलहलाशब्दस्तुमुलः समजायत
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः। ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः
अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः। अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः
खड्गचापधराः शूरा जग्मुराशंसवो जनाः। ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्
सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि। हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः। रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे। नूनं नन्दति ते माता कौसल्या मातृनन्दन
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्। सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम्
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्। तया सुचरितं देव्या पुरा नूनं महत् तपः
रोहिणीव शशाङ्केन रामसंयोगमाप या। इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः। शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः
स राघवस्तत्र तदा प्रलापान् शुश्राव लोकस्य समागतस्य। आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद् विपुलां गमिष्यन्। एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय। न ह्यप्रियं किंचन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन्
स घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः। महीयमानः प्रवरैश्च वादकै- रभिष्टुतो वैश्रवणो यथा ययौ
करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम्। प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो विमलं महापथम्
thumb|सप्तदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तदशः सर्गः ॥२-
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः। पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्
अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम्। स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्
राजमार्गं ययौ रामो मध्येनागुरुधूपितम्। चन्दनानां च मुख्यानामगुरूणां च संचयैः
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च। अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि
शोभमानमसम्बाधं तं राजपथमुत्तमम्। संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि