कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति। महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः। ततः सम्मानयामास सीतामिदमुवाच ह
देवि देवश्च देवी च समागम्य मदन्तरे। मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी। जननी चार्थकामा मे केकयाधिपतेः सुता
दिष्ट्या खलु महाराजो महिष्या प्रियया सह। सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम
यादृशी परिषत् तत्र तादृशो दूत आगतः। ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्। सह त्वं परिवारेण सुखमास्स्व रमस्व च
पतिसम्मानिता सीता भर्तारमसितेक्षणा। आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्। कर्तुमर्हति ते राजा वासवस्येव लोककृत्
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः। स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च
ततः पावकसंकाशमारुरोह रथोत्तमम्। वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः
मेघनादमसम्बाधं मणिहेमविभूषितम्। मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः। हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया। स पर्जन्य इवाकाशे स्वनवानभिनादयन्
निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः। चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः। ततो हलहलाशब्दस्तुमुलः समजायत
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः। ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः
अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः। अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः
खड्गचापधराः शूरा जग्मुराशंसवो जनाः। ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्
सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि। हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः। रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे। नूनं नन्दति ते माता कौसल्या मातृनन्दन
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्। सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम्
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्। तया सुचरितं देव्या पुरा नूनं महत् तपः
रोहिणीव शशाङ्केन रामसंयोगमाप या। इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः। शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः
स राघवस्तत्र तदा प्रलापान् शुश्राव लोकस्य समागतस्य। आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य