तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्। ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः। सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः। सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। तत्रैवानाययामास राघवः प्रियकाम्यया
तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्। ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे
वराहरुधिराभेण शुचिना च सुगन्धिना। अनुलिप्तं परार्घ्येन चन्दनेन परंतपम्
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया। उपेतं सीतया भूयश्चित्रया शशिनं यथा
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा। ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्
प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने। राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः
कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति। महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः। ततः सम्मानयामास सीतामिदमुवाच ह
देवि देवश्च देवी च समागम्य मदन्तरे। मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी। जननी चार्थकामा मे केकयाधिपतेः सुता
दिष्ट्या खलु महाराजो महिष्या प्रियया सह। सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम
यादृशी परिषत् तत्र तादृशो दूत आगतः। ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्। सह त्वं परिवारेण सुखमास्स्व रमस्व च
पतिसम्मानिता सीता भर्तारमसितेक्षणा। आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्। कर्तुमर्हति ते राजा वासवस्येव लोककृत्
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः। स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च
ततः पावकसंकाशमारुरोह रथोत्तमम्। वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः
मेघनादमसम्बाधं मणिहेमविभूषितम्। मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः। हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया। स पर्जन्य इवाकाशे स्वनवानभिनादयन्
निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः। चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः। ततो हलहलाशब्दस्तुमुलः समजायत