इति राजा दशरथः सूतं तत्रान्वशात् पुनः। स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्
निर्जगाम नृपावासान्मन्यमानः प्रियं महत्। प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्। स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः
अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्। ततो ददर्श रुचिरं कैलाससदृशप्रभम्
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्। महाकपाटपिहितं वितर्दिशतशोभितम्
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्। शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहासमम्
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम्। मुक्तामणिभिराकीर्णं चन्दनागुरुभूषितम्
गन्धान् मनोज्ञान् विसृजद् दार्दुरं शिखरं यथा। सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्
सुकृतेहामृगाकीर्णमुत्कीर्णं भक्तिभिस्तथा। मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा
चन्द्रभास्करसंकाशं कुबेरभवनोपमम्। महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्
मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह। उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः
उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः। रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम्
महामेघसमप्रख्यमुदग्रं सुविराजितम्। नानारत्नसमाकीर्णं कुब्जकैरपि चावृतम्
स वाजियुक्तेन रथेन सारथिः समाकुलं राजकुलं विराजयन्। वरूथिना राजगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन्
ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः। मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव
स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः। प्रियान् वरान् राममते स्थितान् बहून् व्यपोह्य शुद्धान्तमुपस्थितौ रथी
स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृतां जनानाम्। नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टाः
महेन्द्रसद्मप्रतिमं च वेश्म रामस्य रम्यं मृगपक्षिजुष्टम्। ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः
उपस्थितैरञ्जलिकारिभिश्च सोपायनैर्जानपदैर्जनैश्च। कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वारपदं ददर्श
ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम्। रामोपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम्
स्वलंकृतान् साश्वरथान् सकुञ्जरा- नमात्यमुख्यांश्च ददर्श वल्लभान्। व्यपोह्य सूतः सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश ह
ततोऽद्रिकूटाचलमेघसंनिभं महाविमानोपमवेश्मसंयुतम्। अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम्
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षोडशः सर्गः ॥२-
स तदन्तःपुरद्वारं समतीत्य जनाकुलम्। प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः। अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम्
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्। ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः। सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः। सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। तत्रैवानाययामास राघवः प्रियकाम्यया