ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः। उपतस्थुरुपस्थानं सह राजपुरोहिताः
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च। राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि। लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्। काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्
रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा। गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम्
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च। प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः। क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः। सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा। चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्। चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम्। पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे। इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्
तथाजातीयमादाय राजपुत्राभिषेचनम्। ते राजवचनात् तत्र समवेता महीपतिम्
अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्। न पश्यामश्च राजानमुदितश्च दिवाकरः
अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः। रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम्
पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः। अयं पृच्छामि वचनात् सुखमायुष्मतामहम्
राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम्। इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्
सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह। तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत। सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्। सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। गता भगवती रात्रिरहः शिवमुपस्थितम्
बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम्। ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विह
दर्शनं तेऽभिकांक्षन्ते प्रतिबुद्ध्यस्व राघव। स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत्। राममानय सूतेति यदस्यभिहितो मया
किमिदं कारणं येन ममाज्ञा प्रतिवाह्यते। न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्
इति राजा दशरथः सूतं तत्रान्वशात् पुनः। स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्
निर्जगाम नृपावासान्मन्यमानः प्रियं महत्। प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्। स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः
अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्। ततो ददर्श रुचिरं कैलाससदृशप्रभम्
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्। महाकपाटपिहितं वितर्दिशतशोभितम्