यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः। तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः। प्रजागरपरिश्रान्तो निद्रावशमुपागतः
तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्। राममानय भद्रं ते नात्र कार्या विचारणा
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि। तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्। स मन्यमानः कल्याणं हृदयेन ननन्द च
निर्जगाम च स प्रीत्या त्वरितो राजशासनात्। सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया
व्यक्तं रामाभिषेकार्थे इहायास्यति धर्मराट्। इति सूतो मतिं कृत्वा हर्षेण महता पुनः
निर्जगाम महातेजा राघवस्य दिदृक्षया। सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात्। निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः
ततः पुरस्तात् सहसा विनिःसृतो महीपतेर्द्वारगतान् विलोकयन्। ददर्श पौरान् विविधान् महाधना- नुपस्थितान् द्वारमुपेत्य विष्ठितान्
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः। उपतस्थुरुपस्थानं सह राजपुरोहिताः
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च। राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि। लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्। काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्
रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा। गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम्
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च। प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः। क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः। सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा। चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्। चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम्। पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे। इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्
तथाजातीयमादाय राजपुत्राभिषेचनम्। ते राजवचनात् तत्र समवेता महीपतिम्
अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्। न पश्यामश्च राजानमुदितश्च दिवाकरः
अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः। रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम्
पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः। अयं पृच्छामि वचनात् सुखमायुष्मतामहम्
राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम्। इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्
सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह। तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत। सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्। सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि