एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः। अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः
त्वरयस्व महाराजं यथा समुदितेऽहनि। पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्
इति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः। स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम्
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः। न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्। वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे
ततः सूतो यथापूर्वं पार्थिवस्य निवेशने। सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्
यथा नन्दति तेजस्वी सागरो भास्करोदये। प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः। सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्
वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्। ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्। बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्
उत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः। विराजमानो वपुषा मेरोरिव दिवाकरः
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि। वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते
गता भगवती रात्रिः कृतं कृत्यमिदं तव। बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्
उदतिष्ठत रामस्य समग्रमभिषेचनम्। पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति। क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्
यथा ह्यपालाः पशवो यथा सेना ह्यनायका। यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते। एवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्
अभ्यकीर्यत शोकेन भूय एव महीपतिः। ततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति
शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः। वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्। प्रगृहीताञ्जलिः किंचित् तस्माद् देशादपाक्रमत्
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः। तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः। प्रजागरपरिश्रान्तो निद्रावशमुपागतः
तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्। राममानय भद्रं ते नात्र कार्या विचारणा
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि। तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्। स मन्यमानः कल्याणं हृदयेन ननन्द च
निर्जगाम च स प्रीत्या त्वरितो राजशासनात्। सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया
व्यक्तं रामाभिषेकार्थे इहायास्यति धर्मराट्। इति सूतो मतिं कृत्वा हर्षेण महता पुनः
निर्जगाम महातेजा राघवस्य दिदृक्षया। सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात्। निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः
ततः पुरस्तात् सहसा विनिःसृतो महीपतेर्द्वारगतान् विलोकयन्। ददर्श पौरान् विविधान् महाधना- नुपस्थितान् द्वारमुपेत्य विष्ठितान्
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-