तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्। वसिष्ठः परमप्रीतः परमर्षिभिरावृतः
स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्। द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्
तमुवाच महातेजाः सूतपुत्रं विशारदम्। वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः। औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च। क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः। चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्
वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्। श्वेते च वालव्यजने भृङ्गारं च हिरण्मयम्
हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः। केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः
सिंहासनं व्याघ्रतनुः समिधश्च हुताशनः। सर्वे वादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः। पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः। अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः
त्वरयस्व महाराजं यथा समुदितेऽहनि। पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्
इति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः। स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम्
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः। न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्। वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे
ततः सूतो यथापूर्वं पार्थिवस्य निवेशने। सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्
यथा नन्दति तेजस्वी सागरो भास्करोदये। प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः। सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्
वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्। ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्। बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्
उत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः। विराजमानो वपुषा मेरोरिव दिवाकरः
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि। वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते
गता भगवती रात्रिः कृतं कृत्यमिदं तव। बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्
उदतिष्ठत रामस्य समग्रमभिषेचनम्। पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति। क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्
यथा ह्यपालाः पशवो यथा सेना ह्यनायका। यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते। एवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्
अभ्यकीर्यत शोकेन भूय एव महीपतिः। ततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति
शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः। वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्। प्रगृहीताञ्जलिः किंचित् तस्माद् देशादपाक्रमत्