किमिदं भाषसे राजन् वाक्यं गररुजोपमम्। आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्। निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि
स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः। राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत्
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना। ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्
ततः प्रभातां रजनीमुदिते च दिवाकरे। पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा। उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम्
सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्। संहृष्टमनुजोपेतां समृद्धविपणापणाम्
महोत्सवसमायुक्तां राघवार्थे समुत्सुकाम्। चन्दनागुरुधूपैश्च सर्वतः परिधूमिताम्
तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम्। ददर्शान्तःपुरं श्रीमान् नानाध्वजगणायुतम्
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्। यष्टिमद्भिः सुसम्पूर्णं सदश्वैः परमार्चितैः
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्। वसिष्ठः परमप्रीतः परमर्षिभिरावृतः
स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्। द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्
तमुवाच महातेजाः सूतपुत्रं विशारदम्। वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः। औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च। क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः। चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्
वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्। श्वेते च वालव्यजने भृङ्गारं च हिरण्मयम्
हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः। केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः
सिंहासनं व्याघ्रतनुः समिधश्च हुताशनः। सर्वे वादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः। पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः। अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः
त्वरयस्व महाराजं यथा समुदितेऽहनि। पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्
इति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः। स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम्
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः। न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्। वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे
ततः सूतो यथापूर्वं पार्थिवस्य निवेशने। सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्
यथा नन्दति तेजस्वी सागरो भास्करोदये। प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः। सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्
वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्। ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्। बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्