राज्ञो विलपमानस्य न व्यभासत शर्वरी। सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः। अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्
नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं मम। एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः
प्रसादयामास पुनः कैकेयीं राजधर्मवित्। साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः
प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः। शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्
कुरु साधुप्रसादं मे बाले सहृदया ह्यसि। प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्
लभतामसितापाङ्गे यशः परमवाप्स्यसि। मम रामस्य लोकस्य गुरूणां भरतस्य च। प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे
विशुद्धभावस्य हि दुष्टभावा दीनस्य ताम्राश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम्
ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः। विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि। विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत्
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्। शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः। सत्यमाश्रित्य च मया त्वं धर्मं प्रतिचोदितः
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः। प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम्
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः। सत्यानुरोधात् समये वेलां स्वां नातिवर्तते
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः। सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम्
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः। स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम
धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्। प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्
समयं च ममार्येमं यदि त्वं न करिष्यसि। अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्। स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा
विकलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः। कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति। अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः। रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्
सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया। व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम्
न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्। हतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम्
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः। प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी
ततः पापसमाचारा कैकेयी पार्थिवं पुनः। उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता