मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्। प्रत्यादेशादभिहितं धारयिष्ये कथं बत
कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्। यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति
अपुत्रेण मया पुत्रः श्रमेण महता महान्। रामो लब्धो महातेजाः स कथं त्यज्यते मया
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्। अभिराममहं रामं स्थापयिष्यामि दण्डकान्
सुखानामुचितस्यैव दुःखैरनुचितस्य च। दुःखं नामानुपश्येयं कथं रामस्य धीमतः
यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्। अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्
अकीर्तिरतुला लोके ध्रुवं परिभविष्यति। तथा विलपतस्तस्य परिभ्रमितचेतसः
अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत। सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता
राज्ञो विलपमानस्य न व्यभासत शर्वरी। सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः। अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्
नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं मम। एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः
प्रसादयामास पुनः कैकेयीं राजधर्मवित्। साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः
प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः। शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्
कुरु साधुप्रसादं मे बाले सहृदया ह्यसि। प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्
लभतामसितापाङ्गे यशः परमवाप्स्यसि। मम रामस्य लोकस्य गुरूणां भरतस्य च। प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे
विशुद्धभावस्य हि दुष्टभावा दीनस्य ताम्राश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम्
ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः। विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि। विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत्
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्। शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः। सत्यमाश्रित्य च मया त्वं धर्मं प्रतिचोदितः
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः। प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम्
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः। सत्यानुरोधात् समये वेलां स्वां नातिवर्तते
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः। सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम्
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः। स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम
धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्। प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्