न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्। कथं तु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते
प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटितां महीं व्रज। न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसने
क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्। न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्
न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतां कुतो रतिः। ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे
स भूमिपालो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया। पपात देव्याश्चरणौ प्रसारिता- वुभावसम्प्राप्य यथाऽऽतुरस्तथा
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-
अतदर्हं महाराजं शयानमतथोचितम्। ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्
अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी। पुनराकारयामास तमेव वरमङ्गना
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः। मम चेदं वरं कस्माद् विधारयितुमिच्छसि
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव
मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्। प्रत्यादेशादभिहितं धारयिष्ये कथं बत
कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्। यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति
अपुत्रेण मया पुत्रः श्रमेण महता महान्। रामो लब्धो महातेजाः स कथं त्यज्यते मया
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्। अभिराममहं रामं स्थापयिष्यामि दण्डकान्
सुखानामुचितस्यैव दुःखैरनुचितस्य च। दुःखं नामानुपश्येयं कथं रामस्य धीमतः
यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्। अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्
अकीर्तिरतुला लोके ध्रुवं परिभविष्यति। तथा विलपतस्तस्य परिभ्रमितचेतसः
अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत। सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता
राज्ञो विलपमानस्य न व्यभासत शर्वरी। सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः। अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्
नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं मम। एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः
प्रसादयामास पुनः कैकेयीं राजधर्मवित्। साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः
प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः। शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्
कुरु साधुप्रसादं मे बाले सहृदया ह्यसि। प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्
लभतामसितापाङ्गे यशः परमवाप्स्यसि। मम रामस्य लोकस्य गुरूणां भरतस्य च। प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे
विशुद्धभावस्य हि दुष्टभावा दीनस्य ताम्राश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम्
ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः। विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः