मृते मयि गते रामे वनं मनुजपुङ्गवे। इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे
कौसल्या मां च रामं च पुत्रौ च यदि हास्यति। दुःखान्यसहती देवी मामेवानुगमिष्यति
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह। प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः। इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि
प्रियं चेद् भरतस्यैतद् रामप्रव्राजनं भवेत्। मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः
मृते मयि गते रामे वनं पुरुषपुङ्गवे। सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि
त्वं राजपुत्रि दैवेन न्यवसो मम वेश्मनि। अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे। सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः। पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति
यस्य चाहारसमये सूदाः कुण्डलधारिणः। अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम्
स कथं नु कषायाणि तिक्तानि कटुकानि च। भक्षयन् वन्यमाहारं सुतो मे वर्तयिष्यति
महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः। काषायपरिधानस्तु कथं रामो भविष्यति
कस्येदं दारुणं वाक्यमेवंविधमपीरितम्। रामस्यारण्यगमनं भरतस्याभिषेचनम्
धिगस्तु योषितो नाम शठाः स्वार्थपरायणाः। न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम्
अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निवेशितासि। किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे
परित्यजेयुः पितरोऽपि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः। कृत्स्नं हि सर्वं कुपितं जगत् स्याद् दृष्ट्वैव रामं व्यसने निमग्नम्
अहं पुनर्देवकुमाररूप- मलंकृतं तं सुतमाव्रजन्तम्। नन्दामि पश्यन्निव दर्शनेन भवामि दृष्ट्वैव पुनर्युवेव
विना हि सूर्येण भवेत् प्रवृत्ति- रवर्षता वज्रधरेण वापि। रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे
विनाशकामामहिताममित्रा- मावासयं मृत्युमिवात्मनस्त्वाम्। चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात्
मया च रामेण सलक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह। पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी
नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे। न नाम ते तेन मुखात् पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा
न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्। कथं तु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते
प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटितां महीं व्रज। न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसने
क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्। न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्
न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतां कुतो रतिः। ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे
स भूमिपालो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया। पपात देव्याश्चरणौ प्रसारिता- वुभावसम्प्राप्य यथाऽऽतुरस्तथा
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-
अतदर्हं महाराजं शयानमतथोचितम्। ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्
अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी। पुनराकारयामास तमेव वरमङ्गना
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः। मम चेदं वरं कस्माद् विधारयितुमिच्छसि
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव