किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्। यदा यदा च कौसल्या दासीव च सखीव च
भार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति। सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा
न मया सत्कृता देवी सत्कारार्हा कृते तव। इदानीं तत्तपति मां यन्मया सुकृतं त्वयि
अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्। विप्रकारं च रामस्य सम्प्रयाणं वनस्य च
सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति। कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्
मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्। वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति
हीना हिमवतः पार्श्वे किंनरेणेव किंनरी। नहि राममहं दृष्ट्वा प्रवसन्तं महावने
चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्। सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्। रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः
अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे। गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः
अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्। विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव। दुःखमेवंविधं प्राप्तं पुरा कृतमिवाशुभम्
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता। अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धनी यथा
रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये। बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्
तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति। मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना
बालिशो बत कामात्मा राजा दशरथो भृशम्। स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति
वेदैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः। भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्। स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति
यदि मे राघवः कुर्याद् वनं गच्छेति चोदितः। प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्। मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्
मृते मयि गते रामे वनं मनुजपुङ्गवे। इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे
कौसल्या मां च रामं च पुत्रौ च यदि हास्यति। दुःखान्यसहती देवी मामेवानुगमिष्यति
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह। प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः। इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि
प्रियं चेद् भरतस्यैतद् रामप्रव्राजनं भवेत्। मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः
मृते मयि गते रामे वनं पुरुषपुङ्गवे। सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि
त्वं राजपुत्रि दैवेन न्यवसो मम वेश्मनि। अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे। सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः। पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति
यस्य चाहारसमये सूदाः कुण्डलधारिणः। अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम्
स कथं नु कषायाणि तिक्तानि कटुकानि च। भक्षयन् वन्यमाहारं सुतो मे वर्तयिष्यति