बालायास्तत् त्विदानीं ते लक्षये विपरीतवत्। कुतो वा ते भयं जातं या त्वमेवंविधं वरम्
राष्ट्रे भरतमासीनं वृणीषे राघवं वने। विरमैतेन भावेन त्वमेतेनानृतेन च
यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च। नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि
किं नु दुःखमलीकं वा मयि रामे च पश्यसि। न कथंचिदृते रामाद् भरतो राज्यमावसेत्
रामादपि हि तं मन्ये धर्मतो बलवत्तरम्। कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते
मुखवर्णं विवर्णं तु यथैवेन्दुमुपप्लुतम्। तां तु मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम्
कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्। किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः
बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्। यदा हि बहवो वृद्धा गुणवन्तो बहुश्रुताः
परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामीह कथं तदा। कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया
यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति। किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते
किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्। यदा यदा च कौसल्या दासीव च सखीव च
भार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति। सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा
न मया सत्कृता देवी सत्कारार्हा कृते तव। इदानीं तत्तपति मां यन्मया सुकृतं त्वयि
अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्। विप्रकारं च रामस्य सम्प्रयाणं वनस्य च
सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति। कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्
मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्। वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति
हीना हिमवतः पार्श्वे किंनरेणेव किंनरी। नहि राममहं दृष्ट्वा प्रवसन्तं महावने
चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्। सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्। रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः
अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे। गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः
अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्। विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव। दुःखमेवंविधं प्राप्तं पुरा कृतमिवाशुभम्
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता। अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धनी यथा
रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये। बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्
तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति। मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना
बालिशो बत कामात्मा राजा दशरथो भृशम्। स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति
वेदैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः। भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्। स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति
यदि मे राघवः कुर्याद् वनं गच्छेति चोदितः। प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्। मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्