सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा। गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः
सत्येन लोकाञ् जयति द्विजान् दानेन राघवः। गुरूञ् छुश्रूषया वीरो धनुषा युधि शात्रवान्
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्। विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्। पापमाशंससे रामे महर्षिसमतेजसि
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः। स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्
क्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता। अप्यहिंसा च भूतानां तमृते कागतिर्मम
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि
पृथिव्यां सागरान्तायां यत् किंचिदधिगम्यते। तत् सर्वं तव दास्यामि मा च त्वं मन्युमाविश
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते। शरणं भव रामस्य माधर्मो मामिह स्पृशेत्
इति दुःखाभिसंतप्तं विलपन्तमचेतनम्। घूर्णमानं महाराजं शोकेन समभिप्लुतम्
पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः। प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः
यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे। धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि
यदा समेता बहवस्त्वया राजर्षयः सह। कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि
यस्याः प्रसादे जीवामि या च मामभ्यपालयत्। तस्याः कृता मया मिथ्या कैकेय्या इति वक्ष्यसि
किल्बिषं त्वं नरेन्द्राणां करिष्यसि नराधिप। यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे
शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ। अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम्
सागरः समयं कृत्वा न वेलामतिवर्तते। समयं मानृतं कार्षीः पूर्ववृत्तमनुस्मरन्
स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च। सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते
भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्। यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः। पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते
एकाहमपि पश्येयं यद्यहं राममातरम्। अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम
भरतेनात्मना चाहं शपे ते मनुजाधिप। यथा नान्येन तुष्येयमृते रामविवासनात्
एतावदुक्त्वा वचनं कैकेयी विरराम ह। विलपन्तं च राजानं न प्रतिव्याजहार सा
श्रुत्वा तु राजा कैकेय्या वाक्यं परमशोभनम्। रामस्य च वने वासमैश्वर्यं भरतस्य च
नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः। प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्
तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्। दुःखशोकमयीं श्रुत्वा राजा न सुखितोऽभवत्
स देव्या व्यवसायं च घोरं च शपथं कृतम्। ध्यात्वा रामेति निःश्वस्य च्छिन्नस्तरुरिवापतत्
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः। हृततेजा यथा सर्पो बभूव जगतीपतिः
दीनयाऽऽतुरया वाचा इति होवाच कैकयीम्। अनर्थमिममर्थाभं केन त्वमुपदेशिता
भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे। शीलव्यसनमेतत् ते नाभिजानाम्यहं पुरा