कैकेयीमब्रवीत् क्रुद्धो निर्दहन्निव तेजसा। नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि
किं कृतं तव रामेण पापे पापं मयापि वा। सदा ते जननीतुल्यां वृत्तिं वहति राघवः
तस्यैवं त्वमनर्थाय किंनिमित्तमिहोद्यता। त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता
अविज्ञानान्नृपसुता व्याला तीक्ष्णविषा यथा। जीवलोको यदा सर्वो रामस्याह गुणस्तवम्
अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्। कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम्
अपश्यतस्तु मे रामं नष्टं भवति चेतनम्। तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्। तदलं त्यज्यतामेष निश्चयः पापनिश्चये
अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे। किमर्थं चिन्तितं पापे त्वया परमदारुणम्
अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति
स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे। तत् त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्
तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम्। आविष्टासि गृहे शून्ये सा त्वं परवशं गता
इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्। अनयो नयसम्पन्ने यत्र ते विकृता मतिः
नहि किंचिदयुक्तं वा विप्रियं वा पुरा मम। अकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते
ननु ते राघवस्तुल्यो भरतेन महात्मना। बहुशो हि स्म बाले त्वं कथाः कथयसे मम
तस्य धर्मात्मनो देवि वने वासं यशस्विनः। कथं रोचयसे भीरु नव वर्षाणि पञ्च च
अत्यन्तसुकुमारस्य तस्य धर्मे कृतात्मनः। कथं रोचयसे वासमरण्ये भृशदारुणे
रोचयस्यभिरामस्य रामस्य शुभलोचने। तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्
रामो हि भरताद् भूयस्तव शुश्रूषते सदा। विशेषं त्वयि तस्मात् तु भरतस्य न लक्षये
शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्। कस्तु भूयस्तरं कुर्यादन्यत्र पुरुषर्षभात्
बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्। परिवादोऽपवादो वा राघवे नोपपद्यते
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा। गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः
सत्येन लोकाञ् जयति द्विजान् दानेन राघवः। गुरूञ् छुश्रूषया वीरो धनुषा युधि शात्रवान्
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्। विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्। पापमाशंससे रामे महर्षिसमतेजसि
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः। स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्
क्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता। अप्यहिंसा च भूतानां तमृते कागतिर्मम
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि
पृथिव्यां सागरान्तायां यत् किंचिदधिगम्यते। तत् सर्वं तव दास्यामि मा च त्वं मन्युमाविश
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते। शरणं भव रामस्य माधर्मो मामिह स्पृशेत्
इति दुःखाभिसंतप्तं विलपन्तमचेतनम्। घूर्णमानं महाराजं शोकेन समभिप्लुतम्