आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे। एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे
बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि। करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे
तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः। व्याजहार महाघोरमभ्यागतमिवान्तकम्
यथा क्रमेण शपसे वरं मम ददासि च। तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः। जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः
निशाचराणि भूतानि गृहेषु गृहदेवताः। यानि चान्यानि भूतानि जानीयुर्भाषितं तव
सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः। वरं मम ददात्येष सर्वे शृण्वन्तु दैवताः
इति देवी महेष्वासं परिगृह्याभिशस्य च। ततः परमुवाचेदं वरदं काममोहितम्
स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे। तत्र त्वां च्यावयच्छत्रुस्तव जीवितमन्तरा
तत्र चापि मया देव यत् त्वं समभिरक्षितः। जाग्रत्या यतमानायास्ततो मे प्रददौ वरौ
तौ दत्तौ च वरौ देव निक्षेपौ मृगयाम्यहम्। तवैव पृथिवीपाल सकाशे रघुनन्दन
तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्। अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः। प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः
ततः परमुवाचेदं वरदं काममोहितम्। वरौ देयौ त्वया देव तदा दत्तौ महीपते
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः। अभिषेकसमारम्भो राघवस्योपकल्पितः
अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्। यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया
तदा देवासुरे युद्धे तस्य कालोऽयमागतः। नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः
चीराजिनधरो धीरो रामो भवतु तापसः। भरतो भजतामद्य यौवराज्यमकण्टकम्
एष मे परमः कामो दत्तमेव वरं वृणे। अद्य चैव हि पश्येयं प्रयान्तं राघवं वने
स राजराजो भव सत्यसंगरः कुलं च शीलं च हि जन्म रक्ष च। परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम्
thumb|द्वादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वादशः सर्गः ॥२-
ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः। चिन्तामभिसमापेदे मुहूर्तं प्रतताप च
किं नु मेऽयं दिवास्वप्नश्चित्तमोहोऽपि वा मम। अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः
इति संचिन्त्य तद् राजा नाध्यगच्छत् तदासुखम्। प्रतिलभ्य ततः संज्ञां कैकेयीवाक्यतापितः
व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः। असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्
मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः। अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः
मोहम् आपेदिवान् भूयः शोकोपहतचेतनः। चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः
कैकेयीमब्रवीत् क्रुद्धो निर्दहन्निव तेजसा। नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि
किं कृतं तव रामेण पापे पापं मयापि वा। सदा ते जननीतुल्यां वृत्तिं वहति राघवः