परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः। कामी कमलपत्राक्षीमुवाच वनितामिदम्
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्। देवि केनाभियुक्तासि केन वासि विमानिता
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु। भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि
भूतोपहतचित्तेव मम चित्तप्रमाथिनि। सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि। कस्य वापि प्रियं कार्यं केन वा विप्रियं कृतम्
कः प्रियं लभतामद्य को वा सुमहदप्रियम्। मा रौत्सीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्। दरिद्रः को भवेदाढ्यो द्रव्यवान् वाप्यकिंचनः
अहं च हि मदीयाश्च सर्वे तव वशानुगाः। न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे
आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम्। बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे। यावदावर्तते चक्रं तावती मे वसुंधरा
द्राविडाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः। वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः
तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्। ततो वृणीष्व कैकेयि यद् यत् त्वं मनसेच्छसि
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने। तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्। तत् ते व्यपनयिष्यामि नीहारमिव रश्मिवान्
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्। परिपीडयितुं भूयो भर्तारमुपचक्रमे
thumb|एकादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकादशः सर्गः ॥२-
तं मन्मथशरैर्विद्धं कामवेगवशानुगम्। उवाच पृथिवीपालं कैकेयी दारुणं वचः
नास्मि विप्रकृता देव केनचिन्नावमानिता। अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम्
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि। अथ ते व्याहरिष्यामि यथाभिप्रार्थितं मया
तामुवाच महाराजः कैकेयीमीषदुत्स्मयः। कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम्
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम। मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते
तेनाजय्येन मुख्येन राघवेण महात्मना। शपे ते जीवनार्हेण ब्रूहि यन्मनसेप्सितम्
यं मुहूर्तमपश्यंस्तु न जीवे तमहं ध्रुवम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्
आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे। एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे
बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि। करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे
तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः। व्याजहार महाघोरमभ्यागतमिवान्तकम्
यथा क्रमेण शपसे वरं मम ददासि च। तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः। जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः
निशाचराणि भूतानि गृहेषु गृहदेवताः। यानि चान्यानि भूतानि जानीयुर्भाषितं तव
सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः। वरं मम ददात्येष सर्वे शृण्वन्तु दैवताः