संविवेशाबला भूमौ निवेश्य भ्रुकुटिं मुखे। ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे। तया तान्य् अपविद्धानि माल्यान्य् आभरणानि च
अशोभयन्त वसुधां नक्षत्राणि यथा नभः। क्रोधागारे च पतिता सा बभौ मलिनाम्बरा
एकवेणीं दृढां बद्ध्वा गतसत्त्वेव किंनरी। आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी। स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः
पाण्डुराभ्रम् इवाकाशं राहुयुक्तं निशाकरः। शुक-बर्हिसमायुक्तं क्रौञ्चहंसरुतायुतम्
वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्। लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः
दान्तराजतसौवर्णवेदिकाभिः समायुतम्। नित्यपुष्पफलैर्वृक्षैर्वापीभिरुपशोभितम्
दान्तराजतसौवर्णैः संवृतं परमासनैः। विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि
उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम्। स प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्
न ददर्श स्त्रियं राजा कैकेयीं शयनोत्तमे। स कामबलसंयुक्तो रत्यर्थी मनुजाधिपः
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च। नहि तस्य पुरा देवी तां वेलामत्यवर्तत
न च राजा गृहं शून्यं प्रविवेश कदाचन। ततो गृहगतो राजा कैकेयीं पर्यपृच्छत
यथापुरम् अविज्ञाय स्वार्थलिप्सुम् अपण्डिताम्। प्रतिहारी त्वथोवाच संत्रस्ता तु कृताञ्जलिः
देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता। प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः
विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः। तत्र तां पतितां भूमौ शयानामतथोचिताम्
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः। स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्
अपापः पापसंकल्पां ददर्श धरणीतले। लतामिव विनिष्कृत्तां पतितां देवतामिव
किन्नरीमिव निर्धूतां च्युताम् अप्सरसं यथा। मायाम् इव परिभ्रष्टां हरिणीम् इव संयताम्
करेणुम् इव दिग्धेन विद्धां मृगयुना वने। महागज इवारण्ये स्नेहात् परमदुःखिताम्
परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः। कामी कमलपत्राक्षीमुवाच वनितामिदम्
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्। देवि केनाभियुक्तासि केन वासि विमानिता
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु। भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि
भूतोपहतचित्तेव मम चित्तप्रमाथिनि। सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि। कस्य वापि प्रियं कार्यं केन वा विप्रियं कृतम्
कः प्रियं लभतामद्य को वा सुमहदप्रियम्। मा रौत्सीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्। दरिद्रः को भवेदाढ्यो द्रव्यवान् वाप्यकिंचनः
अहं च हि मदीयाश्च सर्वे तव वशानुगाः। न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे
आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम्। बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे। यावदावर्तते चक्रं तावती मे वसुंधरा