विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे। जघनं तव निर्मृष्टं रशनादामभूषितम्
जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ। त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी
अग्रतो मम गच्छन्ती राजसेऽतीव शोभने। आसन् याः शम्बरे मायाः सहस्रम् असुराधिपे
हृदये ते निविष्टास् ता भूयश् चान्याः सहस्रशः। तदेव स्थगु(=पृष्ठ-वक्रभागः) यद् दीर्घं रथ-घोणम् इवायतम्
मतयः क्षत्र-विद्याश् च मायाश्चात्र वसन्ति ते। अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्
अभिषिक्ते च भरते राघवे च वनं गते। जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। मुखे च तिलकं चित्रं जातरूपमयं शुभम्
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। परिधाय शुभे वस्त्रे देवतेव चरिष्यसि
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः। पादौ परिचरिष्यन्ति यथैव त्वं सदा मम
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्। शयानां शयने शुभ्रे वेद्यामग्निशिखामिव
गतोदके सेतुबन्धो न कल्याणि विधीयते। उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह। क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना। अवमुच्य वरार्हाणि शुभान्याभरणानि च
तदा हेमोपमा तत्र कुब्जावाक्यवशंगता। संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि। वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्
सुवर्णेन न मे ह्यर्थो न रत्नैर्न च भोजनैः। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
ततः पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः। उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे। ततो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते
तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः। विधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः
यमस्य वा मां विषयं गतामितो निशम्य कुब्जे प्रतिवेदयिष्यसि। वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति
अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्। न किंचिदिच्छामि न चेह जीवनं न चेदितो गच्छति राघवो वनम्
अथैवमुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी। असंस्कृतामास्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किंनरी
उदीर्णसंरम्भतमोवृतानना तदावमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे दशमः सर्गः ॥२-
विदर्शिता यदा देवी कुब्जया पापया भृशम्। तदा शेते स्म सा भूमौ दिग्धविद्धेव किंनरी
(4) निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी। मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता। नागकन्येव निःश्वस्य दीर्घमुष्णं च भामिनी
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्। सा सुहृच्चार्थकामा च तं निशम्य विनिश्चयम्
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा। अथ सा रुषिता देवी सम्यक् कृत्वा विनिश्चयम्