एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति। भरतश्च गतामित्रस्तव राजा भविष्यति
येन कालेन रामश्च वनात् प्रत्यागमिष्यति। अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति
संगृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान्। प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय। अनर्थमर्थरूपेण ग्राहिता सा ततस्तया
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्। सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता
कैकेयी विस्मयं प्राप्य परं परमदर्शना। प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनि
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये। त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम्। सन्ति दुःसंस्थिताः कुब्जाः वक्राः परमपापिकाः
त्वं पद्ममिव वातेन संनता प्रियदर्शना। उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम्
अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्। प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे। जघनं तव निर्मृष्टं रशनादामभूषितम्
जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ। त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी
अग्रतो मम गच्छन्ती राजसेऽतीव शोभने। आसन् याः शम्बरे मायाः सहस्रम् असुराधिपे
हृदये ते निविष्टास् ता भूयश् चान्याः सहस्रशः। तदेव स्थगु(=पृष्ठ-वक्रभागः) यद् दीर्घं रथ-घोणम् इवायतम्
मतयः क्षत्र-विद्याश् च मायाश्चात्र वसन्ति ते। अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्
अभिषिक्ते च भरते राघवे च वनं गते। जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। मुखे च तिलकं चित्रं जातरूपमयं शुभम्
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। परिधाय शुभे वस्त्रे देवतेव चरिष्यसि
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः। पादौ परिचरिष्यन्ति यथैव त्वं सदा मम
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्। शयानां शयने शुभ्रे वेद्यामग्निशिखामिव
गतोदके सेतुबन्धो न कल्याणि विधीयते। उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह। क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना। अवमुच्य वरार्हाणि शुभान्याभरणानि च
तदा हेमोपमा तत्र कुब्जावाक्यवशंगता। संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि। वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्
सुवर्णेन न मे ह्यर्थो न रत्नैर्न च भोजनैः। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
ततः पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः। उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे। ततो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते
तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः। विधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः