मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः। रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः। त्वत्कृते च महाराजो विशेदपि हुताशनम्
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्। तव प्रियार्थं राजा तु प्राणानपि परित्यजेत्
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः। मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः
मणिमुक्तासुवर्णानि रत्नानि विविधानि च। दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः
यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ। तौ स्मारय महाभागे सोऽर्थो न त्वा क्रमेदति
यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः। व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्
रामप्रव्रजनं दूरं नव वर्षाणि पञ्च च। भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः
रामप्रव्राजनं चैव देवि याचस्व तं वरम्। एवं सेत्स्यन्ति पुत्रस्य सर्वार्थास्तव कामिनि
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति। भरतश्च गतामित्रस्तव राजा भविष्यति
येन कालेन रामश्च वनात् प्रत्यागमिष्यति। अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति
संगृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान्। प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय। अनर्थमर्थरूपेण ग्राहिता सा ततस्तया
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्। सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता
कैकेयी विस्मयं प्राप्य परं परमदर्शना। प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनि
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये। त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम्। सन्ति दुःसंस्थिताः कुब्जाः वक्राः परमपापिकाः
त्वं पद्ममिव वातेन संनता प्रियदर्शना। उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम्
अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्। प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे। जघनं तव निर्मृष्टं रशनादामभूषितम्
जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ। त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी
अग्रतो मम गच्छन्ती राजसेऽतीव शोभने। आसन् याः शम्बरे मायाः सहस्रम् असुराधिपे
हृदये ते निविष्टास् ता भूयश् चान्याः सहस्रशः। तदेव स्थगु(=पृष्ठ-वक्रभागः) यद् दीर्घं रथ-घोणम् इवायतम्
मतयः क्षत्र-विद्याश् च मायाश्चात्र वसन्ति ते। अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्
अभिषिक्ते च भरते राघवे च वनं गते। जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। मुखे च तिलकं चित्रं जातरूपमयं शुभम्
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। परिधाय शुभे वस्त्रे देवतेव चरिष्यसि
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः। पादौ परिचरिष्यन्ति यथैव त्वं सदा मम