तस्मान्न लक्ष्मणे रामः पापं किंचित् करिष्यति। रामस्तु भरते पापं कुर्यादेव न संशयः
तस्माद् राजगृहादेव वनं गच्छतु राघवः। एतद्धि रोचते मह्यं भृशं चापि हितं तव
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति। यदि चेद् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति
स ते सुखोचितो बालो रामस्य सहजो रिपुः। समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्। प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया। राममाता सपत्नी ते कथं वैरं न यापयेत्
यदा च रामः पृथिवीमवाप्स्यते प्रभूतरत्नाकरशैलसंयुताम्। तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि
यदा हि रामः पृथिवीमवाप्स्यते ध्रुवं प्रणष्टो भरतो भविष्यति। अतो हि संचिन्तय राज्यमात्मजे परस्य चैवास्य विवासकारणम्
thumb|नवमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवमः सर्गः ॥२-
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना। दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्। यौवराज्येन भरतं क्षिप्रमद्याभिषेचये
इदं त्विदानीं सम्पश्य केनोपायेन साधये। भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन
एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्
हन्तेदानीं प्रपश्य त्वं कैकेयि श्रूयतां वचः। यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे। यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि। श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम्
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी। किंचिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्
एवमुक्ता तदा देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्
पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः। अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत्
दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः
स शम्बर इति ख्यातः शतमायो महासुरः। ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः
तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान्। रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसापास्य राक्षसाः
तत्राकरोन्महायुद्धं राजा दशरथस्तदा। असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः
अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः। तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने। स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरम्
गृह्णीयां तु तदा भर्तस्तथेत्युक्तं महात्मना। अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा
कथैषा तव तु स्नेहान्मनसा धार्यते मया। रामाभिषेकसम्भारान्निगृह्य विनिवर्तय
तौ च याचस्व भर्तारं भरतस्याभिषेचनम्। प्रव्राजनं च रामस्य वर्षाणि च चतुर्दश
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते। शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी