हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः। अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः। रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह
धमर्ज्ञो गुणवान् दान्तः कृतज्ञः सत्यवान् शुचिः। रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति
भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत् पालयिष्यति। संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्
भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम्। पितृपैतामहं राज्यमवाप्स्यति नरर्षभः
सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे। भविष्यति च कल्याणे किमिदं परितप्यसे
यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः। कौसल्यातोऽतिरिक्तं च मम शुश्रूषते बहु
राज्यं यदि हि रामस्य भरतस्यापि तत् तदा। मन्यते हि यथाऽऽत्मानं यथा भ्रातॄंस्तु राघवः
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता। दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे
भविता राघवो राजा राघवस्य च यः सुतः। राजवंशात्तु भरतः कैकेयि परिहास्यते
नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि। स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले
साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुद्ध्यसे। सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमर्हसि
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्। देशान्तरं नाययिता लोकान्तरमथापि वा
बाल एव तु मातुल्यं भरतो नायितस्त्वया। संनिकर्षाच्च सौहार्दं जायते स्थावरेष्विव
भरतानुवशात् सोऽपि शत्रुघ्नस्तत्समं गतः। लक्ष्मणो हि यथा रामं तथायं भरतं गतः
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीवनैः। संनिकर्षादिषीकाभिर्मोचितः परमाद् भयात्
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः। अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्
तस्मान्न लक्ष्मणे रामः पापं किंचित् करिष्यति। रामस्तु भरते पापं कुर्यादेव न संशयः
तस्माद् राजगृहादेव वनं गच्छतु राघवः। एतद्धि रोचते मह्यं भृशं चापि हितं तव
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति। यदि चेद् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति
स ते सुखोचितो बालो रामस्य सहजो रिपुः। समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्। प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया। राममाता सपत्नी ते कथं वैरं न यापयेत्
यदा च रामः पृथिवीमवाप्स्यते प्रभूतरत्नाकरशैलसंयुताम्। तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि
यदा हि रामः पृथिवीमवाप्स्यते ध्रुवं प्रणष्टो भरतो भविष्यति। अतो हि संचिन्तय राज्यमात्मजे परस्य चैवास्य विवासकारणम्
thumb|नवमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवमः सर्गः ॥२-
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना। दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्