मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्। उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा
सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणी। विषादयन्ती प्रोवाच भेदयन्ती च राघवम्
अक्षयं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम्। रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता। दह्यमानानलेनेव त्वद्धितार्थमिहागता
तव दुःखेन कैकेयि मम दुःखं महद् भवेत्। त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः
नराधिपकुले जाता महिषी त्वं महीपतेः। उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः। शुद्धभावेन जानीषे तेनैवमतिसंधिता
उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्। अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति
अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु। काल्ये स्थापयिता रामं राज्ये निहतकण्टके
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया। आशीविष(=सर्प) इवाङ्गेन बाले परिधृतस्त्वया
यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिता। रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव। त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने
मन्थराया वचः श्रुत्वा शयनात् सा शुभानना। उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी
अतीव सा तु संतुष्टा कैकेयी विस्मयान्विता। दिव्यमाभरणं तस्यै कुब्जायै प्रददौ शुभम्
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा। कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्
इदं तु मन्थरे मह्यमाख्यातं परमं प्रियम्। एतन्मे प्रियमाख्यातं किं वा भूयः करोमि ते
रामे वा भरते वाहं विशेषं नोपलक्षये। तस्मात् तुष्टास्मि यद् राजा रामं राज्येऽभिषेक्ष्यति
न मे परं किंचिदितो वरं पुनः प्रियं प्रियार्हे सुवचं वचोऽमृतम्। तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु
thumb|अष्टमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टमः सर्गः ॥२-
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता
हर्षं किमर्थमस्थाने कृतवत्यसि बालिशे। शोकसागरमध्यस्थं नात्मानमवबुध्यसे
मनसा प्रसहामि त्वां देवि दुःखार्दिता सती। यच्छोचितव्ये हृष्टासि प्राप्य त्वं व्यसनं महत्
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्। अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्
भरतादेव रामस्य राज्यसाधारणाद् भयम्। तद् विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते
लक्ष्मणो हि महाबाहू रामं सर्वात्मना गतः। शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि। राज्यक्रमो विसृष्टस्तु तयोस्तावद्यवीयसोः
सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः
प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम्। उपस्थास्यसि कौसल्यां दासीवत् त्वं कृताञ्जलिः
एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि। पुत्रश्च तव रामस्य प्रेष्यत्वं हि गमिष्यति