उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती। राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति
अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे। कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः
विदीर्यमाणा हर्षेण धात्री तु परया मुदा। आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम्
श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम्। राजा दशरथो राममभिषेक्ता हि राघवम्
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षितः। कैलासशिखराकारात् प्रासादादवरोहत
सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी। शयानामेव कैकेयीमिदं वचनमब्रवीत्
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते। उपप्लुतमघौघेन नात्मानमवबुध्यसे
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे। चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः। कुब्जया पापदर्शिन्या विषादमगमत् परम्
कैकेयी त्वब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे। विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्। उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा
सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणी। विषादयन्ती प्रोवाच भेदयन्ती च राघवम्
अक्षयं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम्। रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता। दह्यमानानलेनेव त्वद्धितार्थमिहागता
तव दुःखेन कैकेयि मम दुःखं महद् भवेत्। त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः
नराधिपकुले जाता महिषी त्वं महीपतेः। उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः। शुद्धभावेन जानीषे तेनैवमतिसंधिता
उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्। अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति
अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु। काल्ये स्थापयिता रामं राज्ये निहतकण्टके
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया। आशीविष(=सर्प) इवाङ्गेन बाले परिधृतस्त्वया
यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिता। रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव। त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने
मन्थराया वचः श्रुत्वा शयनात् सा शुभानना। उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी
अतीव सा तु संतुष्टा कैकेयी विस्मयान्विता। दिव्यमाभरणं तस्यै कुब्जायै प्रददौ शुभम्
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा। कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्
इदं तु मन्थरे मह्यमाख्यातं परमं प्रियम्। एतन्मे प्रियमाख्यातं किं वा भूयः करोमि ते
रामे वा भरते वाहं विशेषं नोपलक्षये। तस्मात् तुष्टास्मि यद् राजा रामं राज्येऽभिषेक्ष्यति
न मे परं किंचिदितो वरं पुनः प्रियं प्रियार्हे सुवचं वचोऽमृतम्। तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु
thumb|अष्टमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टमः सर्गः ॥२-